|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.262. अध्यायः 262
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
वायुना हैहयंप्रति देवानां प्रार्थनया अग्निसर्जनेन कपहननरूपब्राह्मणमहिमोक्तिः॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Text
भीष्म उवाच।
तूष्णीमासीदर्जुनस्तु पवनस्त्वब्रवीत्पुनः।
शृणु मे ब्राह्मणेष्वेव मुख्यं कर्म जनाधिप॥ 13-262-1(91895)
मदस्यास्यमनुप्राप्ता यदा सेन्द्रा दिवौकसः।
तदैव च्यवनेन द्यौर्हृता तेषां वसुन्धरा॥ 13-262-2(91896)
उभौ लोकौ हृतौ मत्वा ते देवा दुःखिताऽभवन्।
शोकार्ताश्त महात्मानं ब्रह्माणं शरणं ययुः॥ 13-262-3(91897)
देवा ऊचुः। 13-262-4x(7701)
मदास्यव्यतिषिक्तानामस्माकं लोकपूजित।
च्यवनेन हृता भूमिः कपैश्चैव दिवं प्रभो॥ 13-262-4(91898)
ब्रह्मोवाच। 13-262-5x(7702)
गच्छध्वं शरणं विप्रानाशु सेन्द्रा दिवौकसः।
प्रसाद्य तानुभौ लोकाववाप्स्यथ यथापुरम्॥ 13-262-5(91899)
ते ययुः शरणं विप्रानूचुस्ते काञ्जयामहे।
इत्युक्तास्ते द्विजान्प्राहुर्जयतेह कपानिति॥ 13-262-6(91900)
भूगतान्हि विजेतारो वयमित्यब्रुवन्द्विजाः।
ततः कर्म समारब्धं ब्राह्मणैः कपनाशनम्॥ 13-262-7(91901)
तच्छ्रुत्वा प्रेषितो दूतो ब्राह्मणेभ्यो धनी कपैः।
स च तान्ब्राह्मणानाह धनी कपवचो यथा॥ 13-262-8(91902)
भवद्भिः सदृशः सर्वे कपाः किमिह वर्तते।
सर्वे वेदविदः प्राज्ञाः सर्वे च क्रतुयाजिनः॥ 13-262-9(91903)
सर्वे सत्यव्रताश्चैव सर्वे तुल्या महर्षिभिः।
श्रीश्चैव रमते तेषु धारयन्ति श्रियं च ते॥ 13-262-10(91904)
वृथा दारान्न गच्छन्ति वृथा मांसं न भुञ्जते।
दीप्तमग्निं जुह्वते च गुरूणां वचने स्थिताः॥ 13-262-11(91905)
सर्वे च नियतात्मानो बालानां संविभागिनः।
उपेत्य शनकैर्यान्ति न सेवन्ति रजस्वलाम्।
स्वर्गातिं चैव गच्छन्ति तथैव शुभकर्मिणः॥ 13-262-12(91906)
अभुक्तवत्सु नाश्नन्ति गर्भिणीवृद्धकादिषु।
पूर्वाह्णेषु न दीव्यन्ति दिवा चैव न शेरते॥ 13-262-13(91907)
एतैश्चान्यैश्च बहुभिर्गुणैर्युक्तान्कथं कपान्।
विजेष्यथ निवर्तध्वं निवृत्तानां सुखं हि वः॥ 13-262-14(91908)
ब्राह्मणा ऊचुः। 13-262-15x(7703)
कपान्वयं विजेष्यामो ये देवास्ते वयं स्मृताः।
तस्माद्वध्याः कपाऽस्माकं धनिन्याहि यथागतम्॥ 13-262-15(91909)
धनी गत्वा कपानाह न वो विप्राः प्रियङ्कराः।
गृहीत्वाऽस्त्राण्यतो विप्रान्कपाः सर्वे समाद्रवन्॥ 13-262-16(91910)
समुदग्रध्वजान्दृष्ट्वा कपान्सर्वे द्विजातयः।
व्यसृजञ्ज्वलितानग्नीन्कपानां प्राणनाशनान्॥ 13-262-17(91911)
ब्रह्मसृष्टा हव्यभुजः कपान्हत्वा सनातनाः।
नभसीव यथाऽभ्राणि व्यराजन्त नराधिप॥ 13-262-18(91912)
हत्वा वै दानवान्देवाः सर्वे सम्भूय संयुगे।
ते नाभ्यजानन्हि तदा ब्राह्मणैर्निहतान्कपान्॥ 13-262-19(91913)
अथागम्य महातेजा नारदोऽकथयद्विभो।
यथा हता महाभागैस्तेजसा ब्राह्मणैः कपाः॥ 13-262-20(91914)
नारदस्य वचः श्रुत्वा प्रीताः सर्वे दिवौकसः।
प्रशशंसुर्द्विजांश्चापि ब्राह्मणांश्च यशस्विनः॥ 13-262-21(91915)
तेषां तेजस्तथा वीर्यं देवानां ववृधे ततः।
अवाप्नुवंश्चामरत्वं त्रिषु लोकेषु पूजितम्॥ 13-262-22(91916)
इत्युक्तवचनं वायुमर्जुनः प्रत्युवाच ह।
प्रतिपूज्य महाबाहो यत्तच्छृणु नराधिप॥ 13-262-23(91917)
अर्जुन उवाच। 13-262-24x(7704)
जीवाम्यहं ब्राह्मणार्थं सर्वथा सततं प्रभो।
ब्रह्मण्यो ब्राह्मणेभ्यश्च प्रणमामि च नित्यशः॥ 13-262-24(91918)
दत्तात्रेयप्रसादाच्च मया प्राप्तमिदं बलम्।
लोके च परमा कीर्तिर्धर्मश्चाचरितो महान्॥ 13-262-25(91919)
अहो ब्राह्मणकर्माणि मयि मारुत तत्त्वतः।
त्वया प्रोक्तानि कार्त्स्न्येन श्रुतानि प्रयतेन च॥ 13-262-26(91920)
वायुरुवाच। 13-262-27x(7705)
ब्राह्मणान्क्षात्राधर्मेण पालयस्वेन्द्रियाणि च।
विप्रेभ्यस्ते भयं घोरं तत्तु कालाद्भविष्यति॥ ॥ 13-262-27(91921)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि द्विषष्ट्यधिकद्विशततमोऽध्यायः॥ 262 ॥
Mahabharata - Anushaasana Parva - Chapter Footnotes
7-262-4 कपैः सुरविशेषैः। दिवं द्यौः॥ 7-262-8 धनीनाम दूतः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|